एकीभाव स्तोत्र संस्कृत



एकीभावं गत इव मया य: स्वयं कर्मबन्धो
घोरं दु:खं भवभव-गतो दुर्निवार: करोति।
तस्याप्यस्य त्वयि जिनरवे! भक्तिरुन्मुक्तये चेत्
जेतुं शक्यो भवति न तया कोऽपरस्तापहेतु:॥ 1॥

ज्योतीरूपं दुरितनिवहध्वांतविध्वंसहेतुं
त्वामेवाहुर्जिनवर ! चिरं तत्त्व - विद्याभियुक्ता:।
चेतोवासे भवसि च मम स्फारमुद्भासमानस्-
तस्मिन्नंह: कथमिव तमो वस्तुतो वस्तुमीष्टे॥ 2॥

आनन्दाश्रु - स्नपितवदनं गद्गदं चाभिजल्पन्
यश्चायेत त्वयि दृढमना: स्तोत्र - मन्त्रैर्भवन्तम्।
तस्याभ्यस्तादपि च सुचिरं देहवल्मीकमध्यान्
निष्कास्यन्ते विविध-विषम-व्याधय: काद्रवेया:॥ 3॥

प्रागेवेह त्रिदिवभवनादेष्यता भव्यपुण्यात्
पृथ्वी-चक्रं कनकमयतां देव ! निन्ये त्वयेदम्।
ध्यान-द्वारं मम रुचिकरं स्वान्त - गेहं प्रविष्टस्-
तत्किं चित्रं जिन! वपुरिदं यत्सुवर्णी-करोषि॥ 4॥

लोकस्यैकस्त्वमसि भगवन् ! निर्निमित्तेन बन्धुस्-
त्वय्येवासौ सकल - विषया शक्ति-रप्रत्यनीका।
भक्तिस्फीतां चिरमधिवसन्मामिकां चित्त-शय्यां
मय्युत्पन्नं कथमिव तत: क्लेश-यूथं सहेथा:॥ 5॥

जन्माटव्यां कथमपि मया देव! दीर्घं भ्रमित्वा
प्राप्तैवेयं तव नय - कथा स्फार - पीयूष - वापी।
तस्या मध्ये हिमकर - हिम - व्यूह - शीते नितान्तं
निर्मग्नं मां न जहति कथं दु:ख-दावोपतापा:॥ 6॥

पाद-न्यासादपि च पुनतो यात्रया ते त्रिलोकी ं
हेमाभासो भवति सुरभि: श्रीनिवासश्च पद्म:।
सर्वाङ्गेण स्पृशति भगवंस्त्वय्यशेषं मनो मे
श्रेय: किं तत्स्वयमहरहर्यन्न मामभ्युपैति ॥ 7॥

पश्यन्तं त्वद्वचनममृतं भक्तिपात्र्या पिबन्तं
कर्मारण्यात् - पुरुष -मसमानन्द-धाम-प्रविष्टम्।
त्वां दुर्वार - स्मर-मद-हरं त्वत्प्रसादैक-भूमिं
क्रूराकारा: कथमिव रुजा कण्टका निर्लुठन्ति॥ 8॥

पाषाणात्मा तदितरसम: केवलं रत्न - मूर्ति-
र्मानस्तम्भो भवति च परस्तादृशो रत्नवर्ग:।
दृष्टि-प्राप्तो हरति स कथं मान-रोगं नराणां
प्रत्यासत्तिर्यदि न भवतस्तस्य तच्छक्ति-हेतु:॥ 9॥

हृद्य: प्राप्तो मरुदपि भवन् मूर्तिशैलोपवाही
सद्य: पुंसां निरवधि - रुजा - धूलि - बन्धं धुनोति।
ध्यानाहूतो हृदय - कमलं यस्य तु त्वं प्रविष्टस्-
तस्याशक्य: क इह भुवने देव! लोकोपकार:॥ 10॥

जानासि त्वं मम भव-भवे यच्च यादृक्च दु:खं
जातं यस्य स्मरणमपि मे शस्त्रवन्निष्पिनष्टि।
त्वं सर्वेश: सकृप इति च त्वामुपेतोऽस्मि भक्त्या
यत्कर्तव्यं तदिह विषये देव एव प्रमाणम्॥ 11॥

प्रापद्दैवं तव नुति - पदैर्जीवकेनोपदिष्टै:
पापाचारी मरणसमये सारमेयोऽपि सौख्यम्।
क: संदेहो यदुपलभते वासव - श्रीप्रभुत्वं
जल्पञ्जाप्यैर्मणिभिरमलैस्त्वन्नमस्कार-चक्रम्॥ 12॥

शुद्धे ज्ञाने शुचिनि चरिते सत्यपि त्वय्यनीचा
भक्तिर्नो चेदनवधि-सुखावञ्चिका कुञ्चिकेयम्।
शक्योद्घाटं भवति हि कथं मुक्ति-कामस्य पुंसो-
मुक्तिद्वारं परिदृढ़-महामोह-मुद्रा-कवाटम्॥ 13॥

प्रच्छन्न: खल्वय-मघ-मयै - रन्धकारै: समन्तात्-
पन्था मुक्ते: स्थपुटित - पद: क्लेश-गर्तैरगाधै:।
तत्कस्तेन व्रजति सुखतो देव! तत्त्वावभासी
यद्यग्रेऽग्रे न भवति भवद् - भारतीरत्न-दीप:॥ 14॥

आत्म-ज्योति- र्निधि- रनवधि - द्र्रष्टुरानन्द-हेतु:
कर्म-क्षोणी-पटल-पिहितो योऽनवाप्य: परेषाम्।
हस्ते कुर्वन्त्यनतिचिरतस्तं भवद् भक्तिभाज:
स्तोत्रैर्बन्ध-प्रकृति-परुषोद्दाम-धात्री-खनित्रै:॥ 15॥

प्रत्युत्पन्ना नय - हिमगिरेरायता चामृताब्धे:
या देव त्वत्पद - कमलयो: सङ्गता भक्ति-गङ्गा।
चेतस्तस्यां मम रुचि - वशादाप्लुतं क्षालितांह:
कल्माषं यद् भवति किमियं देव! सन्देह-भूमि:॥ 16॥

प्रादुर्भूत - स्थिर - पद - सुखत्वामनुध्यायतो मे
त्वय्येवाहं स इति मतिरुत्पद्यते निर्विकल्पा।
मिथ्यैवेयं तदपि तनुते तृप्ति - मभ्रेषरूपां
दोषात्मानोऽप्यभिमतफलास्त्वत्प्रसादाद् भवन्ति॥ 17॥

मिथ्यावादं मल - मपनुदन् - सप्तभङ्गीतरङ्गैर्
वागम्भोधिर्भुवनमखिलं देव ! पर्येति यस्ते।
तस्यावृत्तिं सपदि विबुधाश्चेतसैवाचलेन
व्यातन्वन्त: सुचिर-ममृता-सेवया तृप्नुवन्ति॥ 18॥

आहार्येभ्य: स्पृहयति परं य: स्वभावादहृद्य:
शस्त्र-ग्राही भवति सततं वैरिणा यश्च शक्य:।
सर्वाङ्गेषु त्वमसि सुभगस्त्वं न शक्य: परेषां
तत्किं भूषा-वसन-कुसुमै: किं च शस्त्रैरुदस्त्रै:॥ 19॥

इन्द्र: सेवां तव सुकुरुतां किं तया श्लाघनं ते
तस्यैवेयं भव-लय - करी श्लाघ्यतामातनोति।
त्वं निस्तारी जनन-जलधे: सिद्धिकान्तापतिस्त्वं
त्वं लोकानां प्रभुरिति तव श्लाघ्यते स्तोत्रमित्थम्॥ 20॥

वृत्तिर्वाचा - मपर - सदृशी न त्वमन्येन तुल्य:
स्तुत्युद्गारा: कथमिव ततस्त्वय्यमी न: क्रमन्ते।
मैवं भूवंस्तदपि भगवन्! भक्ति-पीयूष-पुष्टास्-
ते भव्यानामभिमत-फला: पारिजाता भवन्ति॥ 21॥

कोपावेशो न तव न तव क्वापि देव! प्रसादो
व्याप्तं चेतस्तव हि परमोपेक्षयैवानपेक्षम्।
आज्ञावश्यं तदपि भुवनं सन्निधि - र्वैर-हारी
क्वैवंभूतं भुवन-तिलक! प्राभवं त्वत्परेषु॥ 22॥

देव! स्तोतुं त्रिदिव गणिका-मण्डली-गीत-कीर्तिं
तोतूर्ति त्वां सकल-विषय-ज्ञान - मूर्तिं र्जनो य:।
तस्य क्षेमं न पदमटतो जातु जोहूर्ति पन्थास्-
तत्त्वग्रन्थ-स्मरण - विषये नैष मोमूर्ति मत्र्य:॥ 23॥

चित्ते कुर्वन्् निरवधिसुखज्ञानदृग्वीर्यरूप
देव! त्वां य: समय - नियमादादरेण स्तवीति।
श्रेयोमार्गं स खलु सुकृती तावता पूरयित्वा
कल्याणानां भवति विषय: पञ्चधा पञ्चितानाम्॥ 24॥

भक्ति-प्रह्वमहेन्द्र - पूजित - पद ! त्वत्कीर्तने न क्षमा:
सूक्ष्म - ज्ञान - दृशोऽपि संयमभृत: के हन्त मन्दा वयम्।
अस्माभि: स्तवन - च्छलेन तु परस्त्वय्यादरस्तन्यते
स्वात्माधीन-सुखैषिणां स खलु न: कल्याण-कल्पद्रुम:॥25॥

वादिराजमनु शाब्दिक-लोको, वादिराजमनु तार्किकसिंह:।
वादिराजमनु काव्यकृतस्ते, वादिराजमनु भव्य-सहाय:॥ 26॥