श्री भक्तामर स्तोत्र पूजा



                           अनुष्टुप्

चतुर्ज्ञानावरणादि घातिकर्मप्रघातिनम् ।

महाधर्मप्रकर्तारं, वन्देऽहमादिनायकम् ॥१॥

भक्तामरमहास्तोत्रं, मन्त्रपूजां करोम्यहम् । 

सर्वजीवहितागारं, आदिदेवं नमाम्यहम् ॥२॥

ॐ ह्रीं श्रीआदिदेव! अत्र अवतर अवतर संवौषट् ।

ॐ ह्रीं श्रीआदिदेव ! अत्र तिष्ठ तिष्ठ ठः ठः ।

ॐ ह्रीं श्रीआदिदेव ! अत्र मम सन्निहितो भव भव वषट् ।

सुरसुरीनदसंभृत-जीवनैः, सकलतापहरैः सुखकारणैः ।

वृषभनाथ-वृषाङ्क-समन्वितं, शिवकरं प्रयजे हतकिल्विषम् ।।

ॐ ह्रीं श्रीवृषभजिनेन्द्राय जन्मजरामृत्युविनाशनाय जलं निर्वपामीति स्वाहा ।

मलय-चन्दन-मिश्रित-कुंकुमैः सुरभितागत-षट्पदनन्दनैः ।

वृषभनाथ-वृषाङ्क-समन्वितं, शिवकरं प्रयजे हतकिल्विषम् ।।

ॐ ह्रीं श्रीवृषभजिनेन्द्राय भवातापविनाशनाय चन्दनं निर्वपामीति स्वाहा ।

विमल-जातिसमुद्भवतण्डुलैः, परमपावनसौख्यदपुञ्जकैः ।

वृषभनाथ-वृषाङ्क-समन्वितं शिवकरं प्रयजे हतकिल्विषम् ।।

ॐ ह्रीं श्रीवृषभजिनेन्द्राय अक्षयपदप्राप्तये अक्षतान् निर्वपामीति स्वाहा ।

जलज-चंपक-जाति-सुमालती-वकुलपाटलकुन्दसुपुष्पकैः ।

वृषभनाथ-वृषाङ्क समन्वितं, शिवकरं प्रयजे हतकिल्विषम् ।।

ॐ ह्रीं श्रीवृषभजिनेन्द्राय कामबाणविध्वंसनाय पुष्पं निर्वपामीति स्वाहा ।

वटकखज्जक- मण्डुकपायसैर्विविधमोदक व्यञ्जनसद्रसैः ।

वृषभनाथ-वृषाङ्क-समन्वितं, शिवकरं प्रयजे हतकिल्विषम् ।।

ॐ ह्रीं श्रीवृषभजिनेन्द्राय क्षुधारोगविनाशनाय नैवेद्यं निर्वपामीति स्वाहा ।

रविकर-द्युति-सन्निभ-दीपकैः प्रबल-मोह-घनान्धनिवारकैः ।

वृषभनाथ-वृषाङ्क-समन्वितं, शिवकरं प्रयजे हतकिल्विषम् ।।

ॐ ह्रीं श्रीवृषभजिनेन्द्राय मोहान्धकारविनाशनाय दीपं निर्वपामीति स्वाहा।

स्वगुरुधूपभरैर्घटनिष्ठितैः, प्रतिदिशं मिलितालि-समूहकैः ।

वृषभनाथ-वृषाङ्क-समन्वितं, शिवकरं प्रयजे हतकिल्विषम् ।।

ॐ ह्रीं श्रीवृषभजिनेन्द्राय अष्टकर्मदहनाय धूपं निर्वपामीति स्वाहा ।

सरसनिम्बुकलाङ्गलि-दाडिमैः, कदलिपुगकपित्थशुभैः फलैः ।

वृषभनाथ-वृषाङ्क-समन्वितं शिवकरं प्रयजे हतकिल्विषम् ।।

ॐ ह्रीं श्रीवृषभजिनेन्द्राय मोक्षफलप्राप्तये फलं निर्वपामीति स्वाहा ।

सलिल-गन्ध-शुभाक्षतपुष्पकैश्चरुसुदीप-सुधूप फलार्घकैः ।

वृषभनाथ-वृषाङ्क-समन्वितं, शिवकरं प्रयजे हतकिल्विषम् ।।

ॐ ह्रीं श्रीवृषभजिनेन्द्राय अनर्घ्यपदप्राप्तये अर्घ्य निर्वपामीति स्वाहा ।

वरसुगन्धसुतण्डुलपुष्पकैः प्रवर-मोदक-दीपक-धूपकैः ।

फलभरैः परमात्मप्रदत्तकं प्रवियजे जयदं धनदं जिनम् ।।

ॐ ह्रीं श्रीजिनाष्टचत्वारिंशन्मन्त्रेभ्यो महार्घ निर्वपामीति स्वाहा।

प्रत्येक अर्घ्य 

 

भक्तामर प्रणतमौलि - मणिप्रभाणा-,

मुद्योतकं दलित-पापतमो-वितानम् ।

सम्यक्प्रणम्य जिनपादयुगं युगादा-,

वालम्बनं भवजले पततां जनानाम् ।।१।।

ॐ ह्रीं प्रणतदेव-समूह-मुकुटाग्रमणिप्रभोद्योतकाय महापापान्धकार- विनाशकाय श्रीआदिपरमेश्वराय अर्घ्य निर्वपामीति स्वाहा ।।

यः संस्तुतः सकलवायतत्त्वबोधा-,

दुद्भूत-बुद्धि-पटुभिः सुरलोक नाथे:

स्तोत्रैर्जगत्त्रितयचित्त  हरैरुदारैः,

स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥२॥

ॐ ह्रीं गणधरचारणसमस्त-ऋषीन्द्रचन्द्रादित्यसुरेन्द्रव्यन्तरेन्द्र-नागेन्द्र- चतुर्विधमुनीन्द्रस्तवितचरणारविन्दाय श्रीआदिपरमेश्वराय अर्घ्य ।

बुद्धया विनापि विबुधार्चितपादपीठ !

स्तोतुं समुद्यतमतिर्विगत - त्रपोऽहम् ।

बालं विहाय जलसंस्थितमिन्दुबिम्ब-,

मन्यः क इच्छति जनः सहसा ग्रहीतुम् ॥३॥

ॐ ह्रीं विगतबुद्धिगर्वापहार-सहित-श्रीमानतुङ्गाचार्य भक्तिसहिताय श्रीआदिपरमेश्वराय अर्घ्यनिर्वपामीति स्वाहा ।

वक्तुं गुणान् गुणसमुद्र ! शशाङ्ककान्तान्, 

कस्ते क्षमः सुरगुरुप्रतिमोऽपि बुद्धया । 

कल्पान्त - कालपवनोद्धत नक्र चक्रं,

को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ॥४॥

ॐ ह्रीं त्रिभुवनगुणसमुद्र-चन्द्रकान्तमणितेजः शरीर समस्त-सुरनाथस्तुत-श्रीआदिपरमेश्वराय अर्घ्य निर्वपामीति स्वाहा । 

सोऽहं तथापि तव भक्तिवशान्मुनीश !, 

कर्तुं स्तवं विगतशक्तिरपि प्रवृत्तः । 

प्रीत्याऽत्मवीर्यमविचार्य मृगी मृगेन्द्रं,

नाभ्येति किं निजशिशोः परिपालनार्थम् ॥५॥ 

ॐ ह्रीं समस्तगणधरादि-मुनिवर-प्रतिपालकाय श्रीआदिपरमेश्वराय अर्घ्य।

अल्पश्रुतं श्रुतवतां परिहास-धाम,

त्वद्भक्तिरेव मुखरीकुरुते बलान्माम् ।

यत्कोकिलः किल मधौ मधुरं विरौति, 

तच्चाम्रचारुकलिका निकरैकहेतु ॥६॥

ॐ ह्रीं तुच्छभक्तिकार्यबहुसुखदायकाय श्रीआदिपरमेश्वराय अर्घ्य। 

त्वत्संस्तवेन भव-सन्तति-सन्निबद्धं,

पापं क्षणात् क्षय-मुपैति शरीर भाजाम् । 

आक्रान्त लोक मलिनीलमशेषमाशु, 

सूर्यांशुभिन्नमिव शार्वरमन्धकारम् ॥७৷৷

ॐ ह्रीं अनन्तभव-पातक-सर्व-विघ्नविनाशकाय स्तुति-सौख्यदायकाय श्रीआदिपरमेश्वराय अर्घ्यनिर्वपामीति स्वाहा ।

मत्वेति नाथ! तव संस्तवनं मयेद-,

मारभ्यते तनुधियाऽपि तव प्रभावात् ।

चेतो हरिष्यति सतां नलिनीदलेषु, 

मुक्ताफलद्युतिमुपैति ननूद-बिन्दुः ॥८॥

ॐ ह्रीं सत्पुरुषचेतोहराय श्रीआदिपरमेश्वराय अर्घ्य निर्वपामीति० । 

आस्तां तव स्तवनमस्तसमस्त-दोषं, 

त्वत्सङ्कथाऽपि जगतां दुरितानि हन्ति ।

दूरे सहस्रकिरणः कुरुते प्रभव,

पद्माकरेषु जलजानि विकासभाञ्जि ॥९॥

ॐ ह्रीं जिनपूजनस्तवन-कथाश्रवणेन समस्त-पाप-विनाशकाय जगत्त्रय-भव्यजीव- भवविघ्ननाशन-समर्थाय च श्रीआदिपरमेश्वराय अर्घ्य निर्वपामीति स्वाहा ।।

नात्यद्भुतं भुवन-भूषण ! भूतनाथ !, 

भूतैर्गुणैर्भुवि भवन्तमभिष्टुवन्तः ।

तुल्या भवन्ति भवतो ननु तेन किं वा, 

भूत्याश्रितं य इह नात्मसमं करोति ? ।।१०।।

ॐ ह्रीं त्रैलोक्यगुणमण्डित-समस्तोपमासहिताय श्रीआदिपरमेश्वराय अर्घ्य।

दृष्ट्वा भवन्तमनिमेषविलोकनीयं,

नान्यत्र तोषमुपयाति जनस्य चक्षुः ।

पीत्वा पयः शशिकरद्युति दुग्धसिन्धोः,

क्षारं जलं जलनिधेरसितुं क इच्छेत् ? ॥११॥ 

ॐ ह्रीं अनन्तभवसञ्चिताघसमूहविनाशकाय श्रीप्रथमजिनेन्द्राय अर्घ्य।

यैः शान्तरागरुचिभिः परमाणुभिस्त्वं, 

निर्मापितत्रिभुवनैक ललामभूत !

तावन्त एव खलु तेऽप्यणवः पृथिव्यां,

यत्ते समानमपरं न हि रूपमस्ति ।।१२।।

ॐ ह्रीं त्रिभुवनशान्तस्वरूपाय त्रिभुवनतिलकमानाय श्रीआदिपरमेश्वराय अर्घ्य।

वक्त्रं क्व ते सुर-नरोरग-नेत्रहारि,

निःशेष निर्जित जगत्त्रितयोपमानम् ।

बिम्बं कलङ्क-मलिनं क्व निशाकरस्य,

यद्वासरे भवति पाण्डु-पलाश-कल्पम् ।।१३।।

ॐ ह्रीं त्रैलोक्यविजयरूपातिशयानन्तचन्द्रतेजोजितपुअभानाय श्रीआदिपरमेश्वराय अर्घ्य निर्वपामीति स्वाहा ।

सम्पूर्ण - मण्डल - शशाङ्क कलाकलाप, 

शुभ्रा गुणात्रिभुवनं तव लड्डयन्ति ।

ये संश्रितास्त्रिजगदीश्वर ! नाथमेकं, 

कस्तान्निवारयति संचरतो यथेष्टम् ।।१४।।

ॐ ह्रीं शुभ्रगुणातिशयरूप-त्रिभुवनजित-जिनेन्द्र गुणविराजमानाय श्री प्रथमजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा ।

चित्रं किमत्र यदि ते त्रिदशाङ्गनाभि,

र्नीतं मनागपि मनो न विकारमार्गम्।

कल्पान्त - काल - मरुता चलिताचलेन,

किं मन्दराद्रिशिखरं चलितं कदाचित् ? ।।१५।।

ॐ ह्रीं मेरुवदचलशीलशिरोमणिव्रतोद्यराजमण्डितचतुर्विधवनिता- विरहितशीलसमुद्राय श्रीआदिपरमेश्वराय अर्घ निर्वपामीति स्वाहा ।

निर्धूम वर्ति रपवर्जित तैलपूरः,

कृत्स्नं जगत्त्रयमिदं प्रकटीकरोषि ।

गम्यो न जातु मरुतां चलिताचलानां, 

दीपोऽपरस्त्वमसि नाथ! जगत्प्रकाशः ।।१६।।

ॐ ह्रीं धूम्रस्नेह-वातादि-विघ्नरहिताय त्रैलोक्य-परम-केवल-दीपकाय श्री प्रथमजिनेन्द्राय अर्घ्य निर्वपामीति स्वाहा ।

नास्तं कदाचिदुपयासि न राहुगम्यः,

स्पष्टीकरोषि सहसा युगपज्जगन्ति ।

नाम्भोधरोदर निरुद्ध महाप्रभावः,

सूर्यातिशायि-महिमाऽसि मुनीन्द्र ! लोके ।।१७।।

ॐ ह्रीं राहुचन्द्र-पूजित-कर्म-प्रकृति-क्षय-तिमिराबरणज्योतिः- सूरलोकद्वयावलोकितसदोदयादिपरमेश्वराय अर्घ्य निर्वपामीति स्वाहा ।

नित्योदयं दलित- मोह महान्धकारं,

गम्यं न राहुवदनस्य न वारिदानाम्।

विभ्राजते तव मुखाब्जमनल्प-कान्ति,

विद्योतयज्जगदपूर्व - शशाङ्क बिम्बम् ।।१८।। 

ॐ ह्रीं नित्योदयादिरूपराहुना अग्रसिताय त्रिभुवन-सर्वकलासहित-विराजमानाय श्रीआदिपरमेश्वराय अर्घ्यनिर्वपामीति स्वाहा ।

किं शर्वरीषु शशिनाह्नि विवस्वता वा ? 

युष्मन्मुखेन्दु-दलितेषु तमःसु नाथ ! 

निष्पन्नशालिवनशालिनि जीवलोके,

कार्य कियज्जलधरैर्जलभार-नप्रैः ।।१९।। 

ॐ ह्रीं चन्द्र-सूर्योदयास्त-रजनी-दिवस-रहित-परम-केवलोदय-सदादीप्ति-विराजमानाय श्रीआदिपरमेश्वराय अर्घ्य निर्वपामीति स्वाहा ।

ज्ञानं यथा त्वयि विभाति कृतावकाशं,

नैवं तथा हरिहरादिषु नायकेषु ।

तेजः स्फुरन्मणिषु याति यथा महत्त्वं,

नैवं तु काचशकले किरणाकुलेऽपि ॥२०॥

ॐ ह्रीं हरि-हरादि-ज्ञानरहिताय सर्वज्ञ-परम-ज्योतिर्केवलज्ञान-सहिताय श्रीआदिपरमेश्वराय अर्घ्य निर्वपामीति स्वाहा ।

मन्ये वरं हरिहरादय एव दृष्टा,

दृष्टेषु येषु हृदयं त्वयि तोषमेति ।

किं वीक्षितेन भवता भुवि येन नान्यः, 

कश्चिन्मनो हरति नाथ ! भवान्तरेऽपि ।।२१।।

ॐ ह्रीं त्रिभुवन-मनमोहन-जिनेन्द्ररूपान्यदृष्टान्त-रहित-परम-बोधमण्डितायश्रीआदिपरमेश्वराय अर्घ्य निर्वपामीति स्वाहा ।

स्त्रीणां शतानि शतशो जनयन्ति पुत्रान्,

नान्या सुतं त्वदुपमं जननी प्रसूता।

सर्वा दिशो दधति भानि सहस्ररश्मिं,

प्राच्येव दिग्जनयति स्फुरदंशुजालम् ॥२२॥

ॐ ह्रीं त्रिभुवन-वनितोपमारहित-श्रीजिनवर-मातृजनितजिनेन्द्र-पूर्व- दिग्भास्करकेवलज्ञानभास्कराय श्रीआदिब्रह्मजिनाय अर्घ्य निर्वपामीति०।

त्वामामनन्ति मुनयः परमं पुमांस- 

मादित्यवर्णममलं तमसः पुरस्तात् ।

त्वामेव सम्यगुपलभ्य जयन्ति मृत्युं,

नान्यः शिवः शिवपदस्य मुनीन्द्र !पन्थाः ॥२३॥

ॐ ह्रीं त्रैलोक्य-पावनादित्यवर्ण-परमाष्टोत्तर शत-लक्षण-नवशत-व्यञ्जन- समुदायैकसहस्राष्टलक्षण-मण्डिताय श्रीआदिजिनेन्द्राय अर्घ्य।

त्वामव्ययं विभुमचिन्त्यमसंख्यमाद्यं,

ब्रह्माण - मीश्वर मनन्त मनङ्गकेतुम् ।

योगीश्वरं विदित योगमनेकमेकं,

ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ॥२४॥

ॐ ह्रीं ब्रह्माविष्णुश्रीकण्ठ-गणपति-त्रिभुवन- देवसेविताय श्रीआदिपरमेश्वराय अर्घ्य निर्वपामीति स्वाहा।

बुद्धस्त्वमेव विबुधार्चितबुद्धिबोधात्-,

त्वं शङ्करोऽसि भुवनत्रय-शङ्करत्वात् । 

धातासि धीर ! शिवमार्गविधेर्विधानाद्,

व्यक्तं त्वमेव भगवन् ! पुरुषोत्तमोऽसि ॥२५॥

ॐ ह्रीं बुद्धिदर्शक-शेषधर-ब्रह्मादिसमस्तानन्त-नामसहिताय श्रीआदिपरमेश्वराय अर्घ्यनिर्वपामीति स्वाहा ।

तुभ्यं नमस्त्रिभुवनार्ति हराय नाथ!,

तुभ्यं नमः क्षितितलामलभूषणाय ।

तुभ्यं नमत्रिजगतः परमेश्वराय,

तुभ्यं नमो जिन ! भवोदधि-शोषणाय ।।२६॥

ॐ ह्रीं अधो-मध्योर्ध्व-लोकत्रय-कृताहोरात्रि-नमस्कार-समस्तार्त-रौद्रविनाशकत्रिभुवनेश्वर-भवोदधि-तरणतारणसमर्थाय श्रीआदिपरमेश्वराय अर्घ निर्वपामीति स्वाहा ।

को विस्मयोऽत्र यदि नामगुणैरशेषै-,

स्त्वं संश्रितो निरवकाशतया मुनीश ! 

दोषैरुपात्त - विविधाश्रय जात गर्वे, 

स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ।।२७।।

ॐ ह्रीं परमगुणाश्रितैकादि-अवगुणरहिताय श्रीआदिपरमेश्वराय अर्घ्य।

उच्चैरशोकतरुसंश्रित मुन्मयूख-,

माभाति रूपममलं भवतो नितान्तम्। 

स्पष्टोल्लसत्किरणमस्त तमोवितानं,

बिम्बं रवेरिव पयोधर पार्श्ववर्ति ॥२८॥

ॐ ह्रीं अशोकवृक्षप्रातिहार्यसहिताय श्रीआदिपरमेश्वराय अर्घ्य। 

सिंहासने मणिमयूखशिखाविचित्रे,

विभ्राजते तव वपुः कनकावदातम् ।

बिम्बं वियद्विलसदंशुलतावितानं, 

तुङ्ङ्गेदयाद्रिशिरसीव सहस्ररश्मेः ॥२९॥

ॐ ह्रीं सिंहासनप्रातिहार्यसहिताय श्रीप्रथमजिनेन्द्राय अर्घ्य निर्वपामीति।

कुन्दावदात - चलचामर - चारु - शोभं, 

विभ्राजते तव वपुः कलधौतकान्तम् । 

उद्यच्छशाङ्क- शुचिनिर्झर वारिधार,

मुच्चैस्तटं सुरगिरेरिव शातकौम्भम् ॥३०॥

ॐ ह्रीं चतुःषष्टिचामर-प्रातिहार्यसहिताय श्रीप्रथमजिनेन्द्राय अर्घ्य।

छत्रत्रयं तव विभाति शशाङ्ककान्त-

मुच्चैः स्थितं स्थगित भानुकरप्रतापम् ।

मुक्ताफल - प्रकर - जाल विवृद्ध-शोभं, 

प्रख्यापयत् त्रिजगतः परमेश्वरत्वम् ॥३१॥

ॐ ह्रीं छत्रत्रय-प्रातिहार्यसहिताय श्रीआदिपरमेश्वराय अर्घ्य निर्वपामीति।

गम्भीरतार - रव - पूरित दिग्विभाग, 

त्रैलोक्यलोक - शुभसङ्गम भूतिदक्षः ।

सद्धर्मराजजय - घोषण- घोषकः सन्,

खेदुन्दुभिर्ध्वनति ते यशसः प्रवादी ॥३२॥

ॐ ह्रीं सार्द्धद्वादश-कोटिवादित्र-प्रातिहार्यसहिताय श्रीपरमादिजिनाय अर्घ्य।

मन्दार - सुन्दर नमेरु - सुपारिजात-, 

सन्तानकादि - कुसुमोत्कर-वृष्टिरुद्घा । 

गन्धोदबिन्दुशुभ मन्दमरुत्प्रपाता,

दिव्या दिवः पतति ते वचसां ततिर्वा ।।३३।।

ॐ ह्रीं समस्तपुष्पजातिवृष्टिप्रातिहार्यसहिताय श्रीआदिजिनेन्द्राय अर्घ्य।

शुम्भत्प्रभा- वलय - भूरि-विभा विभोस्ते, 

लोकत्रये द्युतिमतां द्युतिमाक्षिपन्ती ।

प्रोद्यद्दिवाकर - निरन्तर भूरि संख्या,

दीप्त्या जयत्यपि निशामपि सोमसौम्या ।।३४।।

ॐ ह्रीं कोटि-भास्कर-प्रभामण्डित-भामण्डलप्रातिहार्यसहिताय श्री परमादिजिनाय अर्घ्य निर्वपामीति स्वाहा ।

स्वर्गापवर्ग- गममार्ग विमार्गणेष्टः,

सद्धर्म-तत्त्व-कथनैक - पटुत्रिलोक्याः । 

दिव्यध्वनि-र्भवति ते विशदार्थसर्व-,

भाषा-स्वभाव-परिणाम-गुणैः प्रयोज्यः ॥३५॥

ॐ ह्रीं सलिलजलधर-पटलगर्जित-ध्वनि-योजनप्रमाण-प्रातिहार्य-सहिताय श्रीआदिपरमेश्वराय अर्घ्य निर्वपामीति स्वाहा ॥३५॥

उन्निद्रव्हेमनवपङ्कज पुञ्जकान्ति, 

पर्युल्लसन्नखमयूख शिखाभिरामौ ।

पादौ पदानि तव यत्र जिनेन्द्रधत्तः,

पद्मानि तत्र विबुधाः परिकल्पयन्ति ।।३६।।

ॐ ह्रीं हेमकमलोपरि-गमन-देवकृतातिशय-सहिताय श्रीआदिपरमेश्वराय अर्घ्य निर्वपामीति स्वाहा ।

इत्थं यथा तव विभूतिर भूज्जिनेन्द्र !, 

धर्मोपदेशनविधौ न तथा परस्य ।

यादृक् प्रभा दिनकृतः प्रहतान्धकारा,

तादृक् कुतो ग्रहगणस्य विकाशिनोऽपि ।।३७।।

ॐ ह्रीं धर्मोपदेशसमये समवशरणविभूतिमण्डिताय श्रीआदिपरमेश्वराय अर्घ निर्वपामीति स्वाहा ।

श्च्योतन्मदाविल- विलोल कपोलमूल-, 

मत्तभ्रमद्भ्रमर - नाद विवृद्ध कोपम् । 

ऐरावताभ मिभ मुद्धत मापतन्तं,

दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ।।३८।।

ॐ ह्रीं मस्तकगलित-रण-सुर-गजेन्द्र महादुर्द्धर-भय-विनाशकाय श्रीजिनादिपरमेश्वराय अर्घ्यनिर्वपामीति स्वाहा । 

भिन्नेभकुम्भ-गलदुज्ज्वल - शोणिताक्त-, 

मुक्ताफल - प्रकर- भूषित भूमिभागः । 

बद्धक्रमः क्रमगतं हरिणाधिपोऽपि,

नाक्रामति क्रमयुगाचलसंश्रितं ते ॥३९॥ 

ॐ ह्रीं महासिंहभयविनाशकाय श्रीयुगादिपरमेश्वराय अर्घ्य निर्वपामीति।

कल्पान्तकाल - पवनोद्धत वह्निकल्पं,

दावानलं ज्वलितमुज्ज्वलमुत्स्फुलिङ्गम् ।

विश्वं जिघत्सुमिव सम्मुखमापतन्तं,

त्वन्नामकीर्तनजलं शमयत्यशेषम् ।।४०।।

ॐ ह्रीं महाग्नि-विश्वभक्षण-समर्थ-जिन-नाम-जल-विनाशकायश्रीआदिब्रह्मणे अर्घ्य निर्वपामीति स्वाहा ।

रक्तेक्षणं समद-कोकिल-कण्ठ-नीलं,

क्रोधोद्धतं फणिनमुत्फणमापतन्तम् ।

आक्रामति क्रमयुगेण निरस्तशङ्क,

स्त्वन्नाम - नागदमनी हृदि यस्य पुंसः ॥४१॥

ॐ ह्रीं रक्तनयन-सर्प-जिन-नागदमन्योषधि समस्त-भयविनाशनाय श्रीजिनादिपरमेश्वराय अर्घ्य निर्वपामीति स्वाहा । 

वल्गत्तुरङ्ग गजगर्जित भीमनाद-,

माजौ बलं बलवतामरि-भूपतीनाम् ।

उद्यद्दिवाकर मयूख शिखा पविद्धं 

त्वत्कीर्तनात्तम इवाशु भिदामुपैति ।।४२।।

ॐ ह्रीं महासंग्रामभयविनाशकाय सर्वाङ्गरक्षणकराय श्रीप्रथमजिनेन्द्राय अर्घ्य।

कुन्ताग्रभिन्न - गजशोणित वारिवाह,

वेगावतार तरणातुर योधभीमे ।

युद्धे जयं विजितदुर्जयजेयपक्षा- 

स्त्वत्पादपङ्कजवनाश्रयिणो लभन्ते ।।४३।।

ॐ ह्रीं महारिपुयुद्धे जयदायकाय श्रीआदिपरमेश्वराय अर्घ्य निर्वपामीति। 

अम्भोनिधौ क्षुभितभीषण नक्र-चक्र-, 

पाठीनपीठ-भयदोल्वण- वाडवाग्नौ ।

रङ्गत्तरङ्ग - शिखरस्थित यानपात्रा-,

स्रासं विहाय भवतः स्मरणाद् व्रजन्ति ।।४४।।

ॐ ह्रीं महासमुद्रचलित-वात-महादुर्जय-भय-विनाशकाय जिनादिपरमेश्वराय अर्घ्य निर्वपामीति स्वाहा ।

उद्भूतभीषण - जलोदर भारभुग्नाः,

शोच्यां दशामुपगताश्च्युतजीविताशाः । 

त्वत्पादपङ्कजरजोऽमृत दिग्धदेहा,

मर्त्या भवन्ति मकरध्वजतुल्यरूपाः ॥४५॥

ॐ ह्रीं दश-प्रकार-ताप-जलधराष्टादश-कुष्ठ-सन्निपात-महद्रोग-विनाशकाय परमकामदेवरूप-प्रकटाय श्रीजिनेश्वराय अर्घ्यनिर्वपामीति स्वाहा ।

आपादकण्ठमुरुशृङ्खल वेष्टिताङ्गा,

गाढं बृहन्निगडकोटिनिघृष्टजङ्ङ्गः । 

त्वन्नाममन्त्रमनिशं मनुजाः स्मरन्तः,

सद्यः स्वयं विगतबन्धभया भवन्ति ।।४६।।

ॐ ह्रीं महाबन्धन-आपाद-कण्ठ-पर्यन्त-वैरिकृतोपद्रव-भय-विनाशकाय श्री आदिजिनेश्वराय अर्घ्य निर्वपामीति स्वाहा ।

मत्तद्विपेन्द्र मृगराज दवानलाहि-,

संग्राम-वारिधि - महोदर बन्धनोत्थम् ।

तस्याशु नाशमुपयाति भयं भियेव,

यस्तावकं स्तवमिमं मतिमानधीते ।।४७।।

ॐ ह्रीं गजेन्द्र-राक्षस-भूत-पिशाच-शाकिनी-रिपु-परमोपद्रव-भय-विनाशकाय श्रीजिनादिपरमेश्वराय अर्घ्यनिर्वपामीति स्वाहा । 

स्तोत्रस्रजं तव जिनेन्द्र ! गुणैर्निबद्धां,

भक्त्या मया विविधवर्ण-विचित्रपुष्पाम् ।

धत्ते जनो य इह कण्ठगतामजस्रं,

तं मानतुङ्गमवशा समुपैति लक्ष्मीः ॥४८॥

ॐ ह्रीं पठक-पाठक-श्रोतृश्रद्धावन्मानतुङ्गाचार्यादिसमस्त जीव-कल्याणकराय श्रीआदिपरमेश्वराय अर्घ्य निर्वपामीति स्वाहा । 

वनसुगन्धसुतण्डुलपुष्पकैः प्रवरमोदकदीपकधूपकैः ।

वरफलैः परमात्मपदं प्रवियजे श्रीआदिपरमेश्वरम् ।।

ॐ ह्रीं अष्टचत्वारिंशत्कमलोपरिस्थित श्री आदिपरमेश्वराय पूर्णार्ध्य निर्व० स्वाहा ।

 जयमाला

अनुष्टुब्छन्दः प्रमाणद्वयकर्त्तारं,स्यादस्तिवादवेदकं 

द्रव्यतत्त्वनयागारमादिदेवं नमाम्यहं ।।१।।

त्रोटकछन्दः

शुभदेश-शुभङ्कर-कौशलकं, पुरुपट्टन-मध्य-सरोज-समं ।

नृप-नाभि-नरेन्द्रसुतं सुधियं, प्रणमामि सदा प्रथमादिजिनं ॥१॥

कृत-कारित-मोदन-मोदधरं, मनसा वचसा शुभकार्यपरं ।

दुरितापहरं चामोद-करं, प्रणमामि सदा प्रथमादिजिनं ॥२॥

तव देव सुजन्मदिनं परमं, वरनिर्मित-मङ्गलकाम-करं ।

कनकाद्रिषु पाण्डुकशुद्धवनं, प्रणमामि सदा प्रथमादिजिनं ॥३॥

व्रतभूषण-भूरिविशेषतनुं, करकङ्कण-कज्जलनेत्रधरं ।

मुकुटाब्जविराजित शैलघनं, प्रणमामि सदा प्रथमादिजिनं ॥४।।

ललितास्यसुराजितचारुमुखं, मरुदेव्युदरोद्भवजातसुखं । 

सुरनाथसुताण्डवनृत्यधनं, प्रणमामि सदा प्रथमादिजिनं ॥५॥

वरवस्त्रसुराज्यगजाश्वपदं, रथभृत्यदलं चतुरङ्गदलं ।

शुभकामिनिभोगसुयोगधनं, प्रणमामि सदा प्रथमादिजिनं ॥६॥

गतरागसुरोषविरागकृतिं, सुतपो-बलसाधितमुक्तिसुखं ।

सुखसागरमध्यसदानिलयं, प्रणमामि सदा प्रथमादिजिनं ॥७।।

सुसमोसरणे गतरोगगणं, प्रभुवार-सभामृतवारगणं ।

कृतकेवलज्ञानविकाशकरं, प्रणमामि सदा प्रथमादिजिनं ॥८॥

उपदेश-सुतत्त्वविकाश-करें, कमलाकरलक्षणपूर्णभरं ।

भवित्रासितकर्मकलङ्कहरं, प्रणमामि सदा प्रथमादिजिनं ॥९॥

जिन ! देहि सुमोक्षपदं सुखदं, घनघातिघनाघनवायुपदं ।

परमोत्सवकारित-जन्मवनं, प्रणमामि सदा प्रथमादिजिनं ॥१०॥

जनजाड्यहरं परमार्थबलं, परिपूर्णभवोदधिपारगतं ।

तव रूपस्वरूपसुमूर्तिधरं, प्रणमामि सदा प्रथमादिजिनं ॥११॥

ॐ ह्रीं श्रीआदिनाथपरमतीर्थङ्कराय अर्घ निर्वपामीति स्वाहा ।

शार्दूलविक्रीडितं छन्दः

देवोऽनेकभवार्जितो गतमहापापप्रदीपानलः, 

देवः सिद्धवधूविशाल-हृदयालङ्कारहारोपमः ।

देवोऽष्टादशदोषसिन्धुरघटादुर्भेदपञ्चीननो,

भव्यानां विदधातु वाञ्छितफलं श्रीआदिनाथो जिनः।।

इत्याशीर्वादः पुष्पाञ्जलिं क्षिपेत्