इष्टोपदेश



यस्य स्वयं स्वाभावाप्ति, रभावे कृत्स्नकर्मण:

तस्मै संज्ञान-रूपाय नमोऽस्तु परमात्मने ॥१॥

 

योग्योपादानयोगेन, दृषद: स्वर्णता मता

द्रव्यादिस्वादिसंपत्तावात्मनोऽप्यात्मता मता ॥२॥

 

वरं व्रतै: पदं दैवं, नाव्रतैर्वत नारकम्

छायातपस्थयो र्भेद: प्रतिपालयतोर्महान् ॥३॥

 

यत्र भाव: शिवं दत्ते, द्यौ: कियद्दूरवर्तिनी

यो नयत्याशु गव्यूतिं क्रोशार्धे किं स सीदति ॥४॥

 

हृषीकज -मनातङ्कं दीर्घ - कालोपलालितम्

नाके नाकौकसां सौख्यं, नाके नाकौकसामिव ॥५॥

 

वासनामात्र-मेवैतत् सुखं दु:खं च देहिनाम्

तथा ह्युद्वेजयन्त्येते, भोगा रोगा इवापदि ॥६॥

 

मोहेन संवृतं ज्ञानं, स्वभावं लभते न हि 

मत्त: पुमान् पदार्थानां यथा मदन-कोद्रवै: ॥७॥

 

वपुर्गृहं धनं दारा:, पुत्रा मित्राणि शत्रव:

सर्वथान्यस्वभावानि, मूढ: स्वानि प्रपद्यते ॥८॥

 

दिग्देशेभ्य: खगा एत्य, संवसन्ति नगे नगे

स्वस्वकार्यवशाद्यान्ति, देशे दिक्षु प्रगे प्रगे ॥९॥

 

विराधक: कथं हन्त्रे जनाय परिकुप्यति

त्र्यड्.गुलं पातयन् पद्भ्यां स्वयं दण्डेन पात्यते ॥१०॥

 

रागद्वेषद्वयीदीर्घ - नेत्राकर्षण- कर्मणा

अज्ञानात्सुचिरं जीव:, संसाराब्धौ भ्रमत्यसौ ॥११॥

 

विपद्भवपदावर्ते पदिकेवातिवाह्यते

यावत्तावद्भवन्त्यन्या: प्रचुरा विपद: पुर: ॥१२॥

 

दुरर्ज्येनासुरक्षेणनश्वरेणधनादिना |

स्वस्थंमन्यो जनः कोऽपि ज्वरवानिव सर्पिषा ॥१३॥

 

विपत्तिमात्मनो मूढ:, परेषामिव नेक्षते

दह्यमान-मृगाकीर्णवनान्तर - तरुस्थवत् ॥१४॥

 

आयुर्वृद्धिक्षयोत्कर्ष-, हेतुं कालस्य निर्गमम्

वाञ्छतां धनिनामिष्टं, जीवितात्सुतरां धनम् ॥१५॥

 

त्यागाय श्रेयसे वित्तमवित्त: सञ्चिनोति य:

स्वशरीरं स पङ्केन, स्नास्यामीति विलिम्पति ॥१६॥

 

आरम्भे तापकान् प्राप्तावतृप्तिप्रतिपादकान् 

अन्ते सुदुस्त्यजान् कामान् कामं क: सेवते सुधी: ॥१७॥

 

भवन्ति प्राप्य यत्सङ्गमशुचीनि शुचीन्यपि 

काय: सन्ततापायस्तदर्थं प्रार्थना वृथा ॥१८॥

 

यज्जीवस्योपकाराय, तद्देहस्यापकारकम्

यद्देहस्योपकाराय, तज्जीवस्यापकारकम् ॥१९॥

 

इतश्चिन्तामणिर्दिव्य इत: पिण्याकखण्डकम्

ध्यानेन चेदुभे लभ्ये क्वाद्रियन्तां विवेकिन: ॥२०॥

 

स्वसंवेदन सुव्यक्तस्तनुमात्रो निरत्यय:

अत्यन्तसौख्यवानात्मा, लोकालोकविलोकन: ॥२१॥

 

संयम्य करणग्राममेकाग्रत्वेन चेतस:

आत्मानमात्मवान् ध्यायेदात्मनैवात्मनि स्थितम् ॥२२॥

 

अज्ञानोपास्तिरज्ञानं, ज्ञानं ज्ञानिसमाश्रय:

ददाति यत्तु यस्यास्ति, सुप्रसिद्धमिदं वच: ॥२३॥

 

परीषहाद्यविज्ञानादास्रवस्य निरोधिनी

जायतेऽध्यात्मयोगेन, कर्मणामाशु निर्जरा ॥२४॥

 

कटस्य कत्र्ताहमिति, सम्बन्ध: स्याद् द्वयोद्र्वयो:

ध्यानं ध्येयं यदात्मैव, सम्बन्ध: कीदृशस्तदा ॥२५॥

 

बध्यते मुच्यते जीव:, सममो निर्मम:क्रमात्

 तस्मात्सर्वप्रयत्नेन, निर्ममत्वं विचिन्तयेत् ॥२६॥

 

एकोऽहं निर्मम: शुद्धो, ज्ञानी योगीन्द्रगोचर: 

बाह्या:संयोगजा भावा, मत्त: सर्वेऽपि सर्वथा ॥२७॥

 

दु:खसंदोहभागित्वं, संयोगादिह देहिनाम्

 त्यजाम्येनं तत: सर्वं, मनोवाक्कायकर्मभि: ॥२८॥

 

न मे मृत्यु: कुतो भीतिर्न मे व्याधि: कुतो व्यथा

नाहं बालो न वृद्धोऽहं, न युवैतानि पुद्गले ॥२९॥

 

भुक्तोज्झिता मुहुर्मोहान्मया सर्वेऽपि पुद्गला:

उच्छिष्टेष्विव तेष्वद्य, मम विज्ञस्य का स्पृहा ॥३०॥

 

कर्म कर्म हिताबन्धि, जीवो जीवहितस्पृह:

स्वस्वप्रभावभूयस्त्वे, स्वार्थं को वा न वाञ्छति ॥३१॥

 

परोपकृतिमुत्सृज्य, स्वोपकारपरो भव

उपकुर्वन्परस्याज्ञो, दृश्यमानस्य लोकवत् ॥३२॥

 

गुरूपदेशादभ्यासात्संवित्ते: स्वपरान्तरम् 

जानाति य: स जानाति, मोक्षसौख्यं निरन्तरम् ॥३३॥

 

स्वस्मिन् सदभिलाषित्वादभीष्टज्ञापकत्वत:

स्वयं हितप्रयोक्तृत्वादात्मैव गुरुरात्मन: ॥३४॥

 

नाज्ञो विज्ञत्वमायाति, विज्ञो नाज्ञत्वमृच्छति

निमित्तमात्र-मन्यस्तु, गतेर्धर्मास्तिकायवत् ॥३५॥

 

अभवच्चित्तविक्षेप, एकान्ते तत्त्वसंस्थित:

अभ्यस्येदभियोगेन, योगी तत्त्वं निजात्मन: ॥३६॥

 

यथा यथा समायाति, संवित्तौ तत्त्वमुत्तमम्

तथा तथा न रोचन्ते, विषया: सुलभा अपि ॥३७॥

 

यथा यथा न रोचन्ते, विषया: सुलभा अपि

तथा तथा समायाति, संवित्तौ तत्त्वमुत्तमम् ॥३८॥

 

निशामयति निश्शेषमिन्द्रजालोपमं जगत्

स्पृहयत्यात्मलाभाय, गत्वान्यत्रानुतप्यते ॥३९॥

 

इच्छत्येकान्तसंवासं निर्जनं जनितादर:

निज कार्यवशात्किञ्चिदुक्त्वा विस्मरति द्रुतम् ॥४०॥

 

ब्रुवन्नपि हि न ब्रूते गच्छन्नपि न गच्छति

स्थिरीकृतात्मतत्त्वस्तु, पश्यन्नपि न पश्यति ॥४१॥

 

किमिदं कीदृशं कस्य, कस्मात्क्वेत्यविशेषयन्

स्वदेहमपि नावैति योगी योगपरायण: ॥४२॥

 

यो यत्र निवसन्नास्ते, स तत्र कुरुते रतिम्

यो यत्र रमते तस्मादन्यत्र स न गच्छति ॥४३॥

 

अगच्छंस्तद्विशेषाणामनभिज्ञश्च जायते

अज्ञाततद्विशेषस्तु, बध्यते न विमुच्यते ॥४४॥

 

पर: परस्ततो दु:खमात्मैवात्मा तत: सुखम्

अत एव महात्मानस्तन्निमित्तं कृतोद्यमा: ॥४५॥

 

अविद्वान् पुद्गलद्रव्यं योऽभिनन्दति तस्य तत्

न जातु जन्तो: सामीप्यं,चतुर्गतिषु मुञ्चति ॥४६॥

 

आत्मानुष्ठाननिष्ठस्य, व्यवहारबहि: स्थिते:

जायते परमानन्द: कश्चिद्योगेन योगिन: ॥४७॥

 

आनन्दो निर्दहत्युद्धं कर्मेन्धनमनारतम्

न चासौ खिद्यते योगी, बहिर्दु:खेष्वचेतन: ॥४८॥

 

अविद्याभिदुरं ज्योति:, परं ज्ञानमयं महत्

 तत्प्रष्टव्यं तदेष्टव्यं, तद्द्रष्टव्यं मुमुक्षुभि: ॥४९॥

 

जीवोऽन्य: पुद्गलश्चान्य इत्यसौ तत्त्वसंग्रह:

यदन्यदुच्यते किञ्चित्सोऽस्तु तस्यैव विस्तर: ॥५०॥

 

इष्टोपदेशमिति सम्यगधीत्य धीमान्,

मानापमानसमतां स्वमताद्वितन्य ॥

मुक्ताग्रहो विनिवसन् सजने वने वा,

मुक्तिश्रियं निरुपमामुपयाति भव्य: ॥५१॥