वीतरागम् स्तोत्र



 शिवं शुद्धबुद्धं परं विश्वनाथं,
न देवो न बंधुर्न कर्मा न कर्ता।
न अङ्गं न सङ्गं न स्वेच्छा न कायं,
चिदानन्दरूपं नमो वीतरागम्॥ १॥

न बन्धो न मोक्षो न रागादिदोष:,
न योगं न भोगं न व्याधिर्न शोक:।
न कोपं न मानं न माया न लोभं,
चिदानन्दरूपं नमो वीतरागम्॥ २॥

न हस्तौ न पादौ न घ्राणं न जिह्वा,
न चक्षुर्न कर्ण न वक्त्रं न निद्रा।
न स्वामी न भृत्यो न देवो न मत्र्य:,
चिदानन्दरूपं नमो वीतरागम्॥ ३॥

न जन्म न मृत्यु: न मोहं न चिंता,
न क्षुद्रो न भीतो न काश्र्यं न तन्द्रा ।
न स्वेदं न खेदं न वर्णं न मुद्रा,
चिदानन्दरूपं नमो वीतरागम् ॥ ४॥

त्रिदण्डे त्रिखण्डे हरे विश्वनाथं,
हृषी-केशविध्वस्त-कर्मादिजालम् ।
न पुण्यं न पापं न चाक्षादि-गात्रं,
चिदानन्दरूपं नमो वीतरागम् ॥ ५॥

न बालो न वृद्धो न तुच्छो न मूढो,
न स्वेदं न भेदं न मूर्तिर्न स्नेह: ।
न कृष्णं न शुक्लं न मोहं न तंद्रा,
चिदानन्दरूपं नमो वीतरागम् ॥ ६॥

न आद्यं न मध्यं न अन्तं न चान्यत्,
न द्रव्यं न क्षेत्रं न कालो न भाव: ।
न शिष्यो गुरुर्नापि हीनं न दीनं,
चिदानन्दरूपं नमो वीतरागम् ॥ ७॥

इदं ज्ञानरूपं स्वयं तत्त्ववेदी,
न पूर्णं न शून्यं न चैत्यस्वरूपम् ।
न चान्यो न भिन्नं न परमार्थमेकं,
चिदानन्दरूपं नमो वीतरागम् ॥ ८॥

आत्माराम - गुणाकरं गुणनिधिं, चैतन्यरत्नाकरं,
सर्वे भूतगता-गते सुखदुखे, ज्ञाते त्वयि सर्वगे,
त्रैलोक्याधिपते स्वयं स्वमनसा, ध्यायन्ति योगीश्वरा:,
वंदे तं हरिवंशहर्ष-हृदयं, श्रीमान् हृदाभ्युद्यताम् ॥ ९॥